|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.91. अध्यायः 091
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
वैशम्पायनेन जनमेजयंप्रति नकुलाख्यानकथनारम्भः॥ 1 ॥ अश्वमेधावसाने बिलान्निस्सृतेन कनकपार्श्वेन केनचिन्नकुलेन सदस्यान्प्रति उञ्छवृत्तिब्राह्मणस्य सक्तुप्रस्थदानप्रशंसनपूर्वकं युधिष्ठिराश्वमेधगार्हणम्॥ 2 ॥। तथा सदस्यचोदनया तत्कथनोपक्रमः॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
जनमेजय उवाच।
पितामहस्य मे यज्ञे धर्मराजस्य धीमतः।
यदाश्चर्यमभूत्किञ्चित्तद्भवान्वक्तुमर्हति॥ 14-91-1(95067)
वैशम्पायन उवाच। 14-91-2x(7923)
श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम्।
अश्वमेधे महायज्ञे निवृत्ते यदभूत्प्रभो॥ 14-91-2(95068)
तर्पितेषु द्विजाग्र्येषु ज्ञातिसम्बन्धिबन्धुषु।
दीनान्धकृपणे वाऽपि तदा भरतसत्तम॥ 14-91-3(95069)
घुष्यमाणे महादाने दिक्षु सर्वासु भारत।
पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि॥ 14-91-4(95070)
बिलान्निस्सृत्य नकुलो रुक्मपार्श्वस्तदाऽनघः।
वज्राशनिसमं नादममुञ्चद्वसुधाधिप॥ 14-91-5(95071)
सकृदुत्सृज्य तन्नादं त्रासयानो मृगद्विजान्।
मानुपं वचनं प्राह पुष्पोपरिशयो महान्॥ 14-91-6(95072)
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः।
उच्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः॥ 14-91-7(95073)
तस्य तद्वचनं श्रुत्वा नकुलस्य विशांपते।
विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः॥ 14-91-8(95074)
ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः॥
कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम्॥ 14-91-9(95075)
किं बलं परमं तुभ्यं श्रुतं किं परायणम्।
कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे॥ 14-91-10(95076)
अविलुप्यागमं कृत्स्नं विविधैर्यज्ञियैः कृतम्।
यथागमं यथान्यायं कर्तव्यं च तथा कृतम्॥ 14-91-11(95077)
पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रदर्शात्।
मन्त्राहुतिहुतश्चाग्निर्दत्तं देयममत्सरम्॥ 14-91-12(95078)
तुष्टा द्विजातयश्चात्र दानैर्बहुविधैरपि।
क्षत्रियाश्चि सुयुद्धेन श्राद्धैश्चापि पितामहाः॥ 14-91-13(95079)
पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः।
अनुक्रोशैस्तता शूद्रा दानशेषैः पृथग्जनाः॥ 14-91-14(95080)
ज्ञातिसम्बन्धिनस्तुष्टाः शौचेन च नृपस्य नः।
देवा हविर्भिः पुण्यैस्च रक्षणैः शरणागताः॥ 14-91-15(95081)
यदत्र तथ्यं तद्ब्रूहि सत्यंसत्यं द्विजातिषु।
यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया॥ 14-91-16(95082)
श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च।
समागतश्च विप्रैस्त्वं तद्भवान्वक्तुमर्हति॥ 14-91-17(95083)
इति पृष्टो द्विजैस्तैः स प्रहसन्नकुलोऽब्रवीत्।
नैषा मृषामया वाणी प्रोक्ता दर्पेण वा द्विजाः॥ 14-91-18(95084)
यन्मयोक्तमिदं वाक्यं युष्माभिश्चाप्युपश्रुतम्।
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो द्विजर्षभाः॥ 14-91-19(95085)
इत्यवश्यं मयैतद्वो वक्तव्यं द्विजसत्तमाः।
शृणुताव्यग्रमनसः शंसतो मे यथातथम्॥ 14-91-20(95086)
अनुभूतं च दृष्टं च यन्मयाऽद्भुतमुत्तमम्।
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः॥ 14-91-21(95087)
स्वर्गं येन द्विजाः प्राप्तः सभार्यः ससुतस्नुषः।
यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम्॥ ॥ 14-91-22(95088)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकनवतितमोऽध्यायः॥ 91 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-91-5 नीलाक्षस्तत्र नकुल इति झ.पाठः॥ 7-91-6 धृष्टो बिलशयो महान् इति झ.पाठः॥ 7-91-22 ममेदं यत्रेति शेषः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|